|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.261. अध्यायः 261
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
वायुना हैहयार्जुनंप्रति देवासुरयुद्धे राहुणा चन्द्रसूर्यपराभवेनान्धकारप्राप्तौ देवानां प्रार्थनया चन्द्रीभूय तमोनिरसनरूपात्रिमहिमोक्तिः॥ 1 ॥ तथा सवज्रेन्द्रहस्तस्तम्भनेनाश्विनोः सोमपानदापनरूपच्यवनमहिमोक्तिः॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत्।
शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः॥ 13-261-1(91861)
घोरे तमस्ययुध्यन्त सहिता देवदानवाः।
अविद्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ॥ 13-261-2(91862)
अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः।
देवा नृपतिशार्दूल सहैव बलिभिस्तदा॥ 13-261-3(91863)
असुरेर्वध्यमानास्ते क्षीणप्राणा दिवौकसः।
अपश्यन्त तपस्यन्तमत्रिं विप्रं तपोधनम्॥ 13-261-4(91864)
अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम्।
असुरेरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ॥ 13-261-5(91865)
वयं वध्यामहे चापि शत्रुभिस्तमसा वृते।
नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो॥ 13-261-6(91866)
अत्रिरुवाच। 13-261-7x(7695)
कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव।
तिमिरघ्नश्च सविता दस्युहन्ता च नो भव॥ 13-261-7(91867)
एवमुक्तस्तदात्रिर्वै तमोनुदभवच्छशी।
अपश्यत्सौम्यभावाच्च सोमवत्प्रियदर्शनः॥ 13-261-8(91868)
दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव।
प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे॥ 13-261-9(91869)
जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा।
व्यजयच्छत्रुसङ्घांश्च देवानां स्वेन तेजसा॥ 13-261-10(91870)
अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान्।
पराक्रमैस्तेऽपिं तदा व्यघ्नन्नत्रिसुरक्षिताः।
उद्भासितश्च सविता देवास्त्राता हतासुराः॥ 13-261-11(91871)
अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा।
द्विजेनाग्निद्वितीयेनि जपता चर्मवाससा॥ 13-261-12(91872)
फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम्।
तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः।
ब्रवीम्यन्यं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम्॥ 13-261-13(91873)
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्ततोऽब्रवीत्।
शृणु राजन्महत्कर्म च्यवनस्य महात्मनः॥ 13-261-14(91874)
अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम्।
प्रोवाच सहितो देवैः सोमपावश्विनौ कुरु॥ 13-261-15(91875)
इन्द्र उवाच। 13-261-16x(7696)
अस्माभिर्निन्दितावेतौ भवेतां सोमपौ कथम्।
देवैर्न सम्मितावेतौ तस्मान्मैवं वदस्व नः॥ 13-261-16(91876)
अश्विभ्यां सह नेच्छामः सोमं पातुं महाव्रत।
यदन्यद्वक्ष्यसे विप्र तत्करिष्याम ते वचः॥ 13-261-17(91877)
च्यवन उवाच। 13-261-18x(7697)
पिबेतामश्विनौ सोमं भवद्भिः सहिताविमौ।
उभावेतावपि सुरौ सूर्यपुत्रौ सुरेश्वर॥ 13-261-18(91878)
क्रियतां मद्वचो देवा यथा वै समुदाहृतम्।
एतद्वः कुर्वतां श्रेयो भवेन्नैतदकुर्वताम्॥ 13-261-19(91879)
इन्द्र उवाच। 13-261-20x(7698)
अश्विभ्यां सह सोमं वै न पास्यामि द्विजोत्तम।
पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे॥ 13-261-20(91880)
च्यवन उवाच। 13-261-21x(7699)
न चेत्करिष्यसि वचो मयोक्तं बलसूदन।
मया प्रमथितः सद्यः सोमं पास्यसि वै मखे॥ 13-261-21(91881)
वायुरुवाच। 13-261-22x(7700)
ततः कर्म समारब्धं हिताय सहसाऽश्विनोः।
च्यवनेनि ततो मन्त्रैरभिभूताः सुराऽभवन्॥ 13-261-22(91882)
तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्च्छितः।
उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत्॥ 13-261-23(91883)
तथा वज्रेम भगवानमर्षाकुललोचनः।
तमापतन्तं दृष्ट्वैव च्यवनस्तपसाऽन्वितः॥ 13-261-24(91884)
अद्भिः सिक्त्वाऽस्तम्ययतं सवज्रं सहपर्वतम्।
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव हि॥ 13-261-25(91885)
मदं नामाहुतिमयं व्यादितास्यं महामुनिः।
तस्य दन्तसहस्रं तु बभूव शतयोजनम्॥ 13-261-26(91886)
द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः।
हनुस्तस्याभवद्भूमावास्यं चास्यास्पृशद्दिवम्॥ 13-261-27(91887)
जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः।
तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे॥ 13-261-28(91888)
ते सम्मन्त्र्य ततो देवा मदस्यास्य समीपगाः।
अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये॥ 13-261-29(91889)
अश्विभ्यां सह सोमं च पिबाम विगतज्वराः।
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत्॥ 13-261-30(91890)
च्यवनः कृतवानेतावश्विनौ सोमपायिनौ।
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः॥ 13-261-31(91891)
अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान्।
एतैर्दोषैर्नरा राजन्क्षयं यान्ति न संशयः॥ 13-261-32(91892)
तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेतद्॥ 13-261-33(91893)
एतत्ते च्यवनस्यापि कर्मि राजन्प्रकीर्तितम्।
ब्रवीम्यन्यं ब्रूहि वा त्वं क्षत्रियं ब्राह्मणाद्वरम्॥ ॥ 13-261-34(91894)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकषष्ट्यधिकद्विशततमोऽध्यायः॥ 261 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|